Sunday, 11 January 2026

श्री गुरु गीता


 || अथ प्रथमोऽध्यायः||

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने | समस्त जगदाधारमूर्तये ब्रह्मणे नमः || (1)

ऋषयः ऊचुः

सूत सूत महाप्राज्ञ निगमागमपारग | गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् || (2)

यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते | येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ||

यत्प्राप्य न पुनर्याति नरः संसारबन्धनम् | तथाविधं परं तत्वं वक्तव्यमधुना त्वया || (3,4)

गुह्यादगुह्यतमं सारं गुरुगीता विशेषतः | त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः || (5)

इति संप्राथितः सूतो मुनिसंघैर्मुहुर्मुहुः | कुतूहलेन महता प्रोवाच मधुरं वचः || (6)

सूत उवाच

श्रृणुध्वं मुनयः सर्वे श्रद्धया परया मुदा | वदामि भवरोगघ्नीं गीता मातृस्वरूपिणीम् || (7)

पुरा कैलासशिखरे सिद्धगन्धर्वसेविते| तत्र कल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे ||

व्याघ्राजिने समासिनं शुकादिमुनिवन्दितम् | बोधयन्तं परं तत्वं मध्येमुनिगणंक्वचित् ||

प्रणम्रवदना शश्वन्नमस्कुर्वन्तमादरात् | दृष्ट्वा विस्मयमापन्ना पार्वती परिपृच्छति || (8-10)

पार्वत्युवाच

ॐ नमो देव देवेश परात्पर जगदगुरो | त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा || (11)

विधिविष्णुमहेन्द्राद्यैर्वन्द्यः खलु सदा भवान् | नमस्करोषि कस्मै त्वं नमस्काराश्रयः किलः || (12)

भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् | ब्रूहि मे कृपया शम्भो गुरुमाहात्म्यमुत्तमम् || (13)

इति संप्रार्थितः शश्वन्महादेवो महेश्वरः | आनंदभरितः स्वान्ते पार्वतीमिदमब्रवीत् || (14)

महादेव उवाच

न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् | न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् || (15)

मम् रूपासि देवि त्वमतस्तत्कथयामि ते | लोकोपकारकः प्रश्नो न केनापि कृतः पुरा || (16)

यस्य देवे परा भक्ति यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः || (17)

यो गुरु स शिवः प्रोक्तो यः शिवः स गुरुस्मृतः | विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः || (18)

वेद्शास्त्रपुराणानि चेतिहासादिकानि च | मंत्रयंत्रविद्यादिनिमोहनोच्चाटनादिकम् ||

शैवशाक्तागमादिनि ह्यन्ये च बहवो मताः | अपभ्रंशाः समस्तानां जीवानां भ्रांतचेतसाम् ||

जपस्तपोव्रतं तीर्थं यज्ञो दानं तथैव च | गुरु तत्वं अविज्ञाय सर्वं व्यर्थं भवेत् प्रिये || (19-21)

गुरुबुध्यात्मनो नान्यत् सत्यं सत्यं वरानने | तल्लभार्थं प्रयत्नस्तु कर्त्तवयशच मनीषिभिः || (22)

गूढाविद्या जगन्माया देहशचाज्ञानसम्भवः | विज्ञानं यत्प्रसादेन गुरुशब्देन कथयते || (23)

देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थंवदामि तत् | सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् || (24)

शोषणं पापपंकस्य दीपनं ज्ञानतेजसः | गुरोः पादोदकं सम्यक् संसारार्णवतारकम् || (25)

अज्ञानमूलहरणं जन्मकर्मनिवारकम् | ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् || (26)

स्वदेशिकस्यैव च नामचिन्तनम् | भवेदनन्तस्यशिवस्य नामचिन्तनम् || (27)

काशीक्षेत्रं निवासश्च जाह्नवी चरणोदकम् | गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः || (28)

गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः | तत्पादं विष्णुपादं स्यात् तत्रदत्तमनस्ततम् || (29)

गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः | गुरोर्ध्यानं सदा कुर्यात् पुरूषं स्वैरिणी यथा || (30)

स्वाश्रमं च स्वजातिं च स्वकीर्ति पुष्टिवर्धनम् | एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् || (31)

गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते | त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः || (32)

गुकारश्चान्धकारो हि रुकारस्तेज उच्यते | अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः || (33)

गुकारश्चान्धकारस्तु रुकारस्तन्निरोधकृत् | अन्धकारविनाशित्वात् गुरुरित्यभिधीयते || (34)

गुकारश्च गुणातीतो रूपातीतो रुकारकः | गुणरूपविहीनत्वात् गुरुरित्यभिधीयते || (35)

गुकारः प्रथमो वर्णो मायादि गुणभासकः | रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचकम् || (36)

सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् | वेदान्तार्थप्रवक्तारं तस्मात्संपूजयेद् गुरुम् || (37)

यस्यस्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् | स एव सर्वसम्पत्तिः तस्मात्संपूजयेद् गुरुम् || (38)

संसारवृक्षमारूढाः पतन्ति नरकार्णवे | यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः || (39) 

एक एव परो बन्धुर्विषमे समुपस्थिते | गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः || (40)

भवारण्यप्रविष्टस्य दिड्मोहभ्रान्तचेतसः | येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः || (41)

तापत्रयाग्नितप्तानां अशान्तप्राणीनां भुवि | गुरुरेव परा गंगा तस्मै श्रीगुरुवे नमः || (42)

सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत् | गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम् || (43)

शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन | लब्ध्वा कुलगुरुं सम्यग्गुरुमेव समाश्रयेत् || (44)

गुकारं च गुणातीतं रुकारं रुपवर्जितम् | गुणातीतमरूपं च यो दद्यात् स गुरुः स्मृतः || (45)

अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः | योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये || (46)

देवकिन्नरगन्धर्वाः पितृयक्षास्तु तुम्बुरुः | मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् || (47)

तार्किकाश्छान्दसाश्चैव देवज्ञाः कर्मठः प्रिये | लौकिकास्ते न जानन्ति गुरुतत्वं निराकुलम् || (48)

महाहंकारगर्वेण तपोविद्याबलेन च । भ्रमन्त्येतस्मिन् संसारे घटीयन्त्रं तथा पुनः ।। (49)

यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ताः योगिनस्तथा | तापसा अपि नो मुक्त गुरुतत्वात्पराड्मुखाः || (50)

न मुक्तास्तु गन्धर्वः पितृयक्षास्तु चारणाः | ऋष्यः सिद्धदेवाद्याः गुरुसेवापराड्मुखाः || (51)

|| इति श्री स्कान्दोत्तरखण्डे उमामहेश्वरसंवादे श्री गुरुगीतायां प्रथमोऽध्यायः ||


 || अथ द्वितीयोऽध्यायः ||

 ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिंद्व, न्द्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् |

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्, भावतीतं त्रिगुणरहितं सदगुरुं तं नमामि ||(52) 

गुरुपदिष्टमार्गेण मनः शिद्धिं तु कारयेत् | अनित्यं खण्डयेत्सर्वं यत्किंचिदात्मगोचरम् || (53)

किमत्रं बहुनोक्तेनशास्त्रकोटिशतैरपि | दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् || (54)

करुणाखड्गपातेन छित्त्वा पाशाष्टकं शिशोः | सम्यगानन्दजनकः सदगुरु सोऽभिधीयते ||

एवं श्रुत्वा महादेवि गुरुनिन्दा करोति यः | स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ||| (55, 56)

यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् | गुरुलोपो न कर्त्तव्यः स्वच्छन्दो यदि वा भवेत् ||(57)

हुंकारेण न वक्तव्यं प्राज्ञशिष्यै कदाचन | गुरुराग्रे न वक्तव्यमसत्यं तु कदाचन ||(58)

गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः | अरण्ये निर्जले देशे संभवेद् ब्रह्मराक्षसः ||(59)

अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा | कदाचिदपि नो कुर्यादद्वैतं गुरुसन्निधौ ||(60)

दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् | तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ||(61)

अपि संपूर्णतत्त्वज्ञो गुरुत्यागी भवेद्ददा | भवेत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् || (62)

गुरौ सति स्वयं देवी परेषां तु कदाचन | उपदेशं न वै कुर्यात् तदा चेद्राक्षसो भवेत् ||(63)

न गुरुराश्रमे कुर्यात् दुष्पानं परिसर्पणम् | दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ||(64)

नोपाश्रमं च पर्यंकं न च पादप्रसारणम् | नांगभोगादिकं कुर्यान्न लीलामपरामपि ||(65)

गुरुणां सदसद्वापि यदुक्तं तन्न लंघयेत् | कुर्वन्नाज्ञां दिवारात्रौ दासवन्निवसेद् गुरौ ||(66)

अदत्तं न गुरोर्द्रव्यमुपभुंजीत कहिर्चित् | दत्तं च रंकवद् ग्राह्यं प्राणोप्येतेन लभ्यते ||(67)

पादुकासनशय्यादि गुरुणा यदभिष्टितम् | नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ||(68)

गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् | नोल्बणं धारयेद्वेषं नालंकारास्ततोल्बणान् ||(69)

गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् | स्थानं वा तत्परित्याज्यं जिह्वाच्छेदाक्षमो यदि ||(70)

मुनिभिः पन्नगैर्वापि सुरैवा शापितो यदि | कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ||(71) 

विजानन्ति महावाक्यं गुरोश्चरणसेवया | ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ||(72)

नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् | भासयन् ब्रह्मभावं च दीपो दीपान्तरं यथा ||(73)

गुरुप्रादतः स्वात्मन्यात्मारामनिरिक्षणात् | समता मुक्तिमर्गेण स्वात्मज्ञानं प्रवर्तते ||(74)

स्फ़टिके स्फ़ाटिकं रूपं दर्पणे दर्पणो यथा | तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ||(75)

अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि | तत्र स्फ़ुरति यो भावः श्रुणु तत्कथयामि ते ||(76)

अजोऽहममरोऽहं च ह्यनादिनिधनोह्यहम् | अविकारश्चिदानन्दो ह्यणियान् महतो महान् ||(77)

अपूर्वमपरं नित्यं स्वयं ज्योतिर्निरामयम् | विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ||

अगोचरं तथाऽगम्यं नामरूपविवर्जितम् | निःशब्दं तु विजानीयात्स्वाभावाद् ब्रह्म पर्वति ||(78, 79)

यथा गन्धस्वभावत्वं कर्पूरकुसुमादिषु | शीतोष्णस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ||(80)

यथा निजस्वभावेन कुंडलकटकादयः | सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ||(81)

स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् | कीटो भृंग इव ध्यानात् यथा भवति तादृशः ||(82)

गुरोर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् | स्थितश्च यत्रकुत्रापि मुक्तोऽसौ नात्र संशयः ||(83)

ज्ञानं वैराग्यमैश्वर्यं यशः श्री समुदाहृतम् | षड्गुणैश्वर्ययुक्तो हि भगवान् श्री गुरुः प्रिये ||(84)

गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् | गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ||(85)

एकाकी निस्पृहः शान्तः चिंतासूयादिवर्जितः | बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ||(86)

न सुखं वेदशास्त्रेषु न सुखं मंत्रयंत्रके | गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ||(87)

चावार्कवैष्णवमते सुखं प्रभाकरे न हि | गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ||(88)

न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् | यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ||(89)

नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि | इन्द्रं च मन्यते रंकं नृपाणां तत्र का कथा || (90)

यतः परमकैवल्यं गुरुमार्गेण वै भवेत् | गुरुभक्तिरतिः कार्या सर्वदा मोक्षकांक्षिभिः ||(91)

एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः || एवमभ्यास्ता नित्यं न सेव्यं वै वनान्तरम् ||

अभ्यासान्निमिषणैव समाधिमधिगच्छति | आजन्मजनितं पापं तत्क्षणादेव नश्यति ||(92, 93)

गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः | तामसो रूद्ररूपेण सृजत्यवति हन्ति च ||(94)

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः | एकाकी निःस्पृहः शान्तः स्थातव्यं तत्प्रसादतः ||(95)

सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि | सदाऽनन्दः सदा शान्तो रमते यत्र कुत्रचित् ||(96)

यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः | मुक्तस्य लक्षणं देवी तवाग्रे कथितं मया ||(97)

यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये | आध्यामादिनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ||(98)

शिवपूजारतो वापि विष्णुपूजारतोऽथवा | गुरुतत्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ||(99)

सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः | गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ||(100)

तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः | विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ||(101)

ज्ञानहीनो गुरुत्याज्यो मिथ्यावादी विडंबकः | स्वविश्रान्ति न जानाति परशान्तिं करोति किम् || (102)

शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे | स्वयं तर्तुं न जानाति परं निसतारेयेत्कथम् ||(103)

न वन्दनीयास्ते कष्टं दर्शनाद् भ्रान्तिकारकः | वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत् || (104)

पाखण्डिनः पापरता नास्तिका भेदबुद्धयः | स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृतयः ||

कर्मभ्रष्टाः क्षमानष्टाः निन्द्यतर्कैश्च वादिनः | कामिनः क्रोधिनश्चैव हिंस्राश्चंड़ाः शठस्तथा ||

ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये | एभ्यो भिन्नो गुरुः सेव्य एकभक्त्या विचार्य च ||(105, 106, 107 )

सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् | गुरुगीता समं स्तोत्रं नास्ति तत्वं गुरोः परम् ||(108)

अनेन यद् भवेद् कार्यं तद्वदामि तव प्रिये | लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ||(109)

लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे | ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ||(110)

इमां तु भक्तिभावेन पठेद्वै शृणुयादपि | लिखित्वा यत्प्रसादेन तत्सर्वं फलमश्नुते ||(111)

गुरुगीतामिमां देवि हृदि नित्यं विभावय | महाव्याधिगतैदुःखैः सर्वदा प्रजपेन्मुदा ||(112)

गुरुगीताक्षरैकैकं मंत्रराजमिदं प्रिये | अन्ये च विविधा मंत्राः कलां नार्हन्ति षोड्शीम् ||(113)

अनन्तफलमाप्नोति गुरुगीताजपेन तु | सर्वपापहरा देवि सर्वदारिद्रयनाशिनी ||(114)

अकालमृत्युहंत्री च सर्वसंकटनाशिनी | यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ||(115)

सर्वोपद्रवकुष्ठदिदुष्टदोषनिवारिणी | यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद् भवेत् ||(116)

महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् | अथवा मोहने वश्ये स्वयमेव जपेत्सदा ||(117)

मोहनं सर्वभूतानां बन्धमोक्षकरं परम् | देवराज्ञां प्रियकरं राजानं वश्मानयेत् ||(118)

मुखस्तम्भकरं चैव गुणाणां च विवर्धनम् | दुष्कर्मनाश्नं चैव तथा सत्कर्मसिद्धिदम् ||(119)

असिद्धं साधयेत्कार्यं नवग्रहभयापहम् | दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ||(120)

मोहशान्तिकरं चैव बन्धमोक्षकरं परम् | स्वरूपज्ञाननिलयं गीतशास्त्रमिदं शिवे ||(121)

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् | नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ||(122)

सर्वशान्तिकरं नित्यं तथा वन्ध्यासुपुत्रदम् | अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ||(123)

आयुरारोग्मैश्वर्यं पुत्रपौत्रप्रवर्धनम् | निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ||(124)

अवैधव्यं सकामा तु लभते चान्यजन्मनि | सर्वदुःखभयं विघ्नं नाश्येत्तापहारकम् ||(125)

सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् | यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ||(126)

लिखित्वा पूजयेद्यस्तु मोक्षश्रियम्वाप्नुयात् | गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा || (127)

जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः | शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ||(128)

जपं हीनासनं कुर्वन् हीनकर्माफलप्रदम् | गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ||

जपन् जयमवाप्नोति मरणे मुक्तिदायिका | सर्वकमाणि सिद्धयन्ति गुरुपुत्रे न संशयः || (129, 130)

गुरुमंत्रो मुखे यस्य तस्य सिद्धयन्ति नान्यथा | दीक्षया सर्वकर्माणि सिद्धयन्ति गुरुपुत्रके ||(131)

भवमूलविनाशाय चाष्टपाशनिवृतये | गुरुगीताम्भसि स्नानं तत्वज्ञ कुरुते सदा ||

सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति | तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ||(132, 133)

आसनस्था शयाना वा गच्छन्तष्तिष्ठन्तोऽपि वा | अश्वरूढ़ा गजारूढ़ा सुषुप्ता जाग्रतोऽपि वा ||

शुचिभूता ज्ञानवन्तो गुरुगीतां जपन्ति ये | तेषां दर्शनसंस्पर्शात् पुनर्जन्म न विद्यते ||(134, 135)

कुशदुर्वासने देवि ह्यासने शुभ्रकम्बले | उपविश्य ततो देवि जपेदेकाग्रमानसः || (136)

शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये | पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ||(137)

वस्त्रासने च दारिद्रयं पाषाणे रोगसंभवः | मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् || (138)

कृष्णाजिने ज्ञानसिद्धिः मोक्षश्री व्याघ्रचर्मणि | कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ||(139)

आग्नेय्यां कर्षणं चैव वयव्यां शत्रुनाशनम् | नैरॄत्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ||(140)

उदंमुखः शान्तिजाप्ये वश्ये पूर्वमुखतथा | याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ||(141)

|| इति श्री स्कान्दोत्तरखण्डे उमामहेश्वरसंवादे श्री गुरुगीतायां द्वितीयोऽध्यायः  ||

 || अथ तृतीयोऽध्यायः ||

अथ काम्यजपस्थानं कथयामि वरानने | सागरान्ते सरित्तीरे तीर्थे हरिहरालये ||(142)

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे | वटस्य धात्र्या मूले व मठे वृन्दावने तथा ||(143)

पवित्रे निर्मले देशे नित्यानुष्ठानोऽपि वा | निर्वेदनेन मौनेन जपमेतत् समारभेत् ||(144)

जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा | हीनकर्म त्यजेत्सर्वं गर्हितस्थानमेव च ||(145)

स्मशाने बिल्वमूले वा वटमूलान्तिके तथा | सिद्धयन्ति कानके मूले चूतवृक्षस्य सन्निधौ ||(146)

आकल्पजन्मकोटीनां यज्ञव्रततपः क्रियाः | ताः सर्वाः सफला देवि गुरुसंतोषमात्रतः ||(147)

मंदभाग्या ह्यशक्ताश्च ये जना नानुमन्वते | गुरुसेवासु विमुखाः पच्यन्ते नरकेऽशुचौ ||(148)

विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् | येषां गुरुकृपा नास्ति अधो गच्छन्ति पार्वति || (149)

धन्या माता पिता धन्यो गोत्रं धन्यं कुलोदभवः| धन्या च वसुधा देवि यत्र स्याद् गुरुभक्तता || (150)

शरीरमिन्द्रियं प्राणच्चार्थः स्वजनबन्धुतां | मातृकुलं पितृकुलं गुरुरेव न संशयः ||(151)

गुरुर्देवो गुरुर्धर्मो गुरौ निष्ठा परं तपः | गुरोः परतरं नास्ति त्रिवारं कथयामि ते ||(152)

समुद्रे वै यथा तोयं क्षीरे क्षीरं घृते घृतम् | भिन्ने कुंभे यथाऽऽकाशं तथाऽऽत्मा परमात्मनि ||(153)

तथैव ज्ञानवान् जीव परमात्मनि सर्वदा | ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ||(154)

गुरुसन्तोषणादेव मुक्तो भवति पार्वति | अणिमादिषु भोक्तृत्वं कृपया देवि जायते ||(155)

साम्येन रमते ज्ञानी दिवा वा यदि वा निशि | एवं विधौ महामौनी त्रैलोक्यसमतां व्रजेत् ||(156)

गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् | सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ||(157)

कन्याभोगरतामन्दाः स्वकान्तायाः पराड्मुखाः | अतः परं मया देवि कथितन्न मम प्रिये ||(158)

अभक्ते वंचके धूर्ते पाखंडे नास्तिकादिषु | मनसाऽपि न वक्तव्या गुरुगीता कदाचन ||(159)

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः | तमेकं दुर्लभं मन्ये शिष्यह्यत्तापहारकम् ||(160)

चातुर्यवान्विवेकी च अध्यात्मज्ञानवान् शुचिः | मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ||(161)

गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः | कामक्रोधविनिर्मुक्ताः सदाचारा जितेन्द्रियाः ||(162)

सूचकादि प्रभेदेन गुरवो बहुधा स्मृताः | स्वयं समयक् परीक्ष्याथ तत्वनिष्ठं भजेत्सुधीः ||(163)

वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् | यस्मिन् देवि समभ्यस्तं स गुरुः सूचकः स्मृतः ||(164)

वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् | प्रवक्तारं गुरुं विद्धि वाचकस्त्वति पार्वति ||(165)

पंचाक्षर्यादिमंत्राणामुपदेष्टा त पार्वति | स गुरुर्बोधको भूयादुभयोरमुत्तमः ||(166)

मोहमारणवश्यादितुच्छमंत्रोपदर्शिनम् | निषिद्धगुरुरित्याहुः पण्डितस्तत्वदर्शिनः ||(167)

अनित्यमिति निर्दिश्य संसारे संकटालयम् | वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ||(168)

तत्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति | कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ||(169)

सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः | जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ||(170)

बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः | लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ||(171)

एवं बहुविधालोके गुरवः सन्ति पार्वति | तेषु सर्वप्रत्नेन सेव्यो हि परमो गुरुः ||(172)

पार्वत्युवाच

स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः | दैवन्निषिद्धगुरुगा यदि तेषां तु का गतिः ||(173)

श्रीमहादेव उवाच

निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः | ब्रह्मप्रलयपर्यन्तं न पुनर्याति मृत्यताम् ||(174)

श्रृणु तत्वमिदं देवि यदा स्याद्विरतो नरः | तदाऽसावधिकारीति प्रोच्यते श्रुतमस्तकैः ||(175)

अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् | स्वस्मिन संदर्शितं येन स भवेदस्य देशिकः ||(176)

जलानां सागरो राजा यथा भवति पार्वति | गुरुणां तत्र सर्वेषां राजायं परमो गुरुः ||(177)

मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः | तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ||(178)

सर्वकालविदेशेषु स्वतंत्रो निश्चलस्सुखी | अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ||(179)

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् | अज्ञानान्धमश्छेत्ता सर्वज्ञ परमो गुरुः || (180)

यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता | स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ||(181)

स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् | यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ||(182)

मौनी वाग्मीति तत्वज्ञो द्विधाभूच्छृणु पार्वति | न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये ||

वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः | यतोऽसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ||(183, 184)

गुरुनामजपाद्येवि बहुजन्मार्जितान्यपि | पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ||(185)

कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे | मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ||(186)

कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया | तृप्ताः स्युस्स्कला देवा ब्रह्माद्या गुरुतर्पणात् ||(187)

स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् | तपो जपादिकं देवि सकलं बालजल्पवत् ||(188)

न जानन्ति परं तत्वं गुरुदीक्षापराड्मुखाः | भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ||(189)

तस्मात्कैवल्यसिद्धयर्थं गुरुमेव भजेत्प्रिये | गुरुं विना न जानन्ति मूढास्तत्परमं पदम् ||(190)

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते सर्वकर्माणि गुरोः करुणया शिवे ||(191)

कृताया गुरुभक्तेस्तु वेदशास्त्रनुसारतः | मुच्यते पातकाद् घोराद् गुरुभक्तो विशेषतः ||(192)

कृताया गुरुभक्तेस्तु वेदशास्त्रनुसारतः | मुच्यते पातकाद् घोराद् गुरुभक्तो विशेषतः ||(192)

दुःसंगं च परित्यज्य पापकर्म परित्यजेत् | चित्तचिह्नमिदं यस्य तस्य दीक्षा विधीयते ||(193)

चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः | द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ||(194)

एतल्लक्षणसंयुक्तं सर्वभूतहिते रतम् | निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ||(195)

अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च | प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ||(196)

सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः | साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ||(197)

नास्तिकाय कृतघ्नाय दांभिकाय शठाय च | अभक्ताय विभक्ताय न वाच्येयं कदाचन || (198)

स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे | निन्दकाय न वक्तव्या गुरुगीतास्वभावतः ||(199)

एकाक्षरप्रदातारं यो गुरुर्नैव मन्यते | श्वनयोनिशतं गत्वा चाण्डालेष्वपि जायते ||(200)

गुरुत्यागाद् भवेन्मृत्युर्मन्त्रत्यागाद्यरिद्रता | गुरुमंत्रपरित्यागी रौरवं नरकं व्रजेत् ||(201)

शिवक्रोधाद् गुरुस्त्राता गुरुक्रोधाच्छिवो न हि | तस्मात्सर्वप्रयत्नेन गुरोराज्ञां न लंघयेत् || (202)

सप्तकोटिमहामंत्राश्चित्तविभ्रंशकारकाः | एक एव महामंत्रो गुरुरित्यक्षरद्वयम् ||(203)

न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणि | गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ||(204)

गुरुगीतामिमां देवि भवदुःखविनाशिनीम् | गुरुदीक्षाविहीनस्य पुरतो न पठेत्क्वचित् ||(205)

रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि | अनेकजन्मार्जितपुण्यपाकाद् गुरोस्तु तत्वं लभते मनुष्यः ||(206)

सर्वतीर्थवगाहस्य संप्राप्नोति फलं नरः | गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ||(207)

गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् | गुरुर्मूर्ते सदा ध्यानं गुरोर्नाम्नः सदा जपः ||(208)

गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम्  | गुरोः परतरं नास्ति तस्मात्संपूजयेद् गुरुम् ||(209)

ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः | गुरोः समानतो नान्यत् साधनं गुरुमार्गिणाम् ||(210)

गुरोः कृपाप्रसादेन ब्रह्मविष्णुशिवादयः | सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यंतकर्मणि ||(211)

मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम् | स्मृतिवेदपुराणानां सारमेव न संशयः ||(212)

यस्य प्रसादादहमेव सर्वं मय्येव सर्वं परिकल्पितं च | इत्थं विजानामि सदात्मरूपं त्स्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ||(213)

अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः | ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ||(214)

|| इति श्री स्कान्दोत्तरखण्डे उमामहेश्वरसंवादे श्री गुरुगीतायां तृतीयोऽध्यायः ||

No comments:

Post a Comment